PRATYANGARA DEVI -THE MOST POWERFUL 108

 PRATYANGARA DEVI 108 NAMES VERY POWERFUL STOTRA . BY  SASHOK 

श्रीप्रत्यङ्गिराष्टोत्तरशतनामावली

 

 

अथ ध्यानम् ।

 

आशाम्बरा मुक्तकचा घनच्छविर्ध्येया स चर्मासिकरा विभूषणा ।

दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्कर तेजसेरिता ॥

 

श्यामाभ्यां वेदहस्तां त्रिनयनलसितां सिंहवक्त्रोर्ध्वकेशीं

शूलं मुण्डं च सर्पं डमरूभुजयुतां कुन्तलात्युग्रदंष्ट्ऱाम् ।

रक्तेष्वालीढजिह्वां ज्वलदनलशिखां गायत्रीसावित्रियुक्तां

ध्यायेत्प्रत्यङ्गिरां तां मरणरिपुविषव्याधिदारिद्र्यनाशाम् ॥

 

ॐ प्रत्यङ्गिरायै नमः ।

ॐ ॐकाररूपिण्यै नमः ।

ॐ विश्वरूपायै नमः ।

ॐ विरूपाक्षप्रियायै नमः ।

ॐ जटाजूटकारिण्यै नमः ।

ॐ कपालमालालङ्कृतायै नमः ।

ॐ नागेन्द्रभूषणायै नमः ।

ॐ नागयज्ञोपवीतधारिण्यै नमः ।

ॐ सकलराक्षसनाशिन्यै नमः ।

ॐ श्मशानवासिन्यै नमः । १०

ॐ कुञ्चितकेशिन्यै नमः ।

ॐ कपालखट्वाङ्गधारिण्यै नमः ।

ॐ रक्तनेत्रज्वालिन्यै नमः ।

ॐ चतुर्भुजायै नमः ।

ॐ चन्द्रसहोदर्यै नमः ।

ॐ ज्वालाकरालवदनायै नमः ।

ॐ भद्रकाल्यै नमः ।

ॐ हेमवत्यै नमः ।

ॐ नारायणसमाश्रितायै नमः ।

ॐ सिंहमुख्यै नमः । २०

ॐ महिषासुरमर्दिन्यै नमः ।

ॐ धूम्रलोचनायै नमः ।

ॐ शङ्करप्राणवल्लभायै नमः ।

ॐ लक्ष्मीवाणीसेवितायै नमः ।

ॐ कृपारूपिण्यै नमः ।

ॐ कृष्णाङ्ग्यै नमः ।

ॐ प्रेतवाहनायै नमः ।

ॐ प्रेतभोगिन्यै नमः ।

ॐ प्रेतभोजिन्यै नमः ।

ॐ शिवानुग्रहवल्लभायै नमः । ३०

ॐ पञ्चप्रेतासनायै नमः ।

ॐ महाकाल्यै नमः ।

ॐ वनवासिन्यै नमः ।

ॐ अणिमादिगुणाश्रयायै नमः ।

ॐ रक्तप्रियायै नमः ।

ॐ शाकमांसप्रियायै नमः ।

ॐ नरशिरोमालालङ्कृतायै नमः ।

ॐ अट्टहासिन्यै नमः ।

ॐ करालवदनायै नमः ।

ॐ ललज्जिह्वायै नमः । ४०

ॐ ह्रींकारायै नमः ।

ॐ ह्रींविभूत्यै नमः ।

ॐ शत्रुनाशिन्यै नमः ।

ॐ भूतनाशिन्यै नमः ।

ॐ सर्वदुरितविनाशिन्यै नमः ।

ॐ सकलापन्नाशिन्यै नमः ।

ॐ अष्टभैरवसेवितायै नमः ।

ॐ ब्रह्मविष्णुशिवात्मिकायै नमः ।

ॐ भुवनेश्वर्यै नमः ।

ॐ डाकिनीपरिसेवितायै नमः । ५०

ॐ रक्तान्नप्रियायै नमः ।

ॐ मांसनिष्ठायै नमः ।

ॐ मधुपानप्रियोल्लासिन्यै नमः ।

ॐ डमरुकधारिण्यै नमः ।

ॐ भक्तप्रियायै नमः ।

ॐ परमन्त्रविदारिण्यै नमः ।

ॐ परयन्त्रनाशिन्यै नमः ।

ॐ परकृत्यविध्वंसिन्यै नमः ।

ॐ महाप्रज्ञायै नमः ।

ॐ महाबलायै नमः । ६०

ॐ कुमारकल्पसेवितायै नमः ।

ॐ सिंहवाहनायै नमः ।

ॐ सिंहगर्जिन्यै नमः ।

ॐ पूर्णचन्द्रनिभायै नमः ।

ॐ त्रिनेत्रायै नमः ।

ॐ भण्डासुनिषेवितायै नमः ।

ॐ प्रसन्नरूपधारिण्यै नमः ।

ॐ भुक्तिमुक्तिप्रदायिन्यै नमः ।

ॐ सकलैश्वर्यधारिण्यै नमः ।

ॐ नवग्रहरूपिण्यै नमः । ७०

ॐ कामधेनुप्रगल्भायै नमः ।

ॐ योगमायायुगन्धरायै नमः ।

ॐ गुह्यविद्यायै नमः ।

ॐ महाविद्यायै नमः ।

ॐ सिद्धिविद्यायै नमः ।

ॐ खड्गमण्डलसुपूजितायै नमः ।

ॐ सालग्रामनिवासिन्यै नमः ।

ॐ योनिरूपिण्यै नमः ।

ॐ नवयोनिचक्रात्मिकायै नमः ।

ॐ श्रीचक्रसुचारिण्यै नमः । ८०

ॐ राजराजसुपूजितायै नमः ।

ॐ निग्रहानुग्रहायै नमः ।

ॐ सभानुग्रहकारिण्यै नमः ।

ॐ बालेन्दुमौलिसेवितायै नमः ।

ॐ गङ्गाधरालिङ्गितायै नमः ।

ॐ वीररूपायै नमः ।

ॐ वराभयप्रदायै नमः ।

ॐ वासुदेवविशालाक्ष्यै नमः ।

ॐ पर्वतस्तनमण्डलायै नमः ।

ॐ हिमाद्रिनिवासिन्यै नमः । ९०

ॐ दुर्गारूपायै नमः ।

ॐ दुर्गतिहारिण्यै नमः ।

ॐ ईषणात्रयनाशिन्यै नमः ।

ॐ महाभीषणायै नमः ।

ॐ कैवल्यफलप्रदायै नमः ।

ॐ आत्मसंरक्षिण्यै नमः ।

ॐ सकलशत्रुविनाशिन्यै नमः ।

ॐ नागपाशधारिण्यै नमः ।

ॐ सकलविघ्ननाशिन्यै नमः ।

ॐ परमन्त्रतन्त्राकर्षिण्यै नमः । १००

ॐ सर्वदुष्टप्रदुष्टशिरच्छेदिन्यै नमः ।

ॐ महामन्त्रयन्त्रतन्त्ररक्षिण्यै नमः ।

ॐ नीलकण्ठिन्यै नमः ।

ॐ घोररूपिण्यै नमः ।

ॐ विजयाम्बायै नमः ।

ॐ धूर्जटिन्यै नमः ।

ॐ महाभैरवप्रियायै नमः ।

ॐ महाभद्रकालिप्रत्यङ्गिरायै नमः । १०८

 

इति श्रीप्रत्यङ्गिराष्टोत्तरशतनामावलिः सम्पूर्णा ॥

 

Comments

Popular posts from this blog

rashtriya sant shree janardan swami

KUBER MANTRAS FOR WEALTH AND PROSPERITY

STAVAN MANJARI PARAYAN -DASGANU MAHARAJS TRIBUTE TO SAI BABA